सद्रत्नसाररचितं नाभीनां च सहस्रकम्
सद्रत्नसाररचितं रथचक्रसहस्रकम्
सुवर्णरम्भास्तम्भानां लक्षं च सुमनोहरम्
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम्
सुवर्णरचितानां च खञ्जनानां सहस्रकम्
राजहंससहस्रं च गजेन्द्राणां सहस्रकम्
सुवर्णच्छत्रलक्षं च देयं नारायणाय च
मालतीनां च कुसुममक्षतं लक्षमीश्वरि
अमूल्यरत्नलक्षं च देयं नारायणाय वै
स्वच्छस्फटिकसङ्काशं मणीन्द्रश्रेष्ठलक्षकम्
प्रवालसारसंकाशं मणिसारसहस्रकम्
माणिक्यसारलक्षं च देयं कृष्णाय यत्नतः
कूष्माण्डं नारिकेलं च जम्बीरं श्रीफलं तथा
रत्नेन्द्रसारलक्षं च देयं कृष्णाय यत्नतः
वाद्यं नानाप्रकारं च कांस्यतालादिकं परम्
पायसं पिष्टकं सर्पिः शर्कराक्तं मनोहरम्
सुगन्धिपुष्पमालानां लक्षमक्षतमीप्सितम्
नैवेद्यानि च देयानि स्वादूनि मधुराणि च
नानाविधानि पुष्पाणि तुलसीसंयुतानि च
ब्राह्मणानां सहस्रं च प्रत्यहं भोजयेद्व्रती
पुष्पाञ्जलिशतं देयं नित्यं पूर्णं च पूजने
षण्मासांश्च हविष्यान्नं मासान्पञ्च फलादिकम्
रत्नप्रदीपशतकं वह्निं दद्याद्दिवानिशम्
स्मरणं कीर्त्ततं केलिः प्रेक्षणं गुह्यभाषणम्
स्वप्नमैथुनकं त्याज्यं व्रतिना व्रतशुद्धये
त्रिशतं वै षष्ट्यधिकं रल्लकं वस्त्रसंयुतम्
त्रिशतं वै षष्ट्यधिकसहस्रं विप्रभोजनम्
त्रिशतं वै षष्ट्यधिकं सहस्रं स्वर्णमेव च
अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम्
हरितुल्यो भवेत्पुत्रो विख्यातो भुवनत्रये