सुधापूर्णं च कुम्भानां सहस्रं रत्ननिर्म्मितम्
रत्नप्रदीपलक्षं च गोपवेषविधायिने
धत्तूरकुसुमाकारं रत्नपात्रसहस्रकम्
सद्रत्नसाररचितं पद्मनालसहस्रकम्
लक्षं च रक्तपद्मानां करसौन्दर्यहेतवे
अंगुलीयकलक्षं च रत्नसारविनिर्म्मितम्
मणीन्द्रसारलक्षं च श्वेतवर्णं मनोहरम्
सद्रत्नसारहाराणां लक्षं चातिमनोहरम्
सुपक्वश्रीफलानां च लक्षं च सुमनोहरम्
सद्रत्नवर्तुलाकारपत्रलशं मनोहरम्
सद्रत्नसाररचितं नाभीनां च सहस्रकम्
सद्रत्नसाररचितं रथचक्रसहस्रकम्
सुवर्णरम्भास्तम्भानां लक्षं च सुमनोहरम्
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम्
सुवर्णरचितानां च खञ्जनानां सहस्रकम्
राजहंससहस्रं च गजेन्द्राणां सहस्रकम्
सुवर्णच्छत्रलक्षं च देयं नारायणाय च
मालतीनां च कुसुममक्षतं लक्षमीश्वरि
अमूल्यरत्नलक्षं च देयं नारायणाय वै
स्वच्छस्फटिकसङ्काशं मणीन्द्रश्रेष्ठलक्षकम्
प्रवालसारसंकाशं मणिसारसहस्रकम्
माणिक्यसारलक्षं च देयं कृष्णाय यत्नतः
कूष्माण्डं नारिकेलं च जम्बीरं श्रीफलं तथा
रत्नेन्द्रसारलक्षं च देयं कृष्णाय यत्नतः
वाद्यं नानाप्रकारं च कांस्यतालादिकं परम्
पायसं पिष्टकं सर्पिः शर्कराक्तं मनोहरम्
सुगन्धिपुष्पमालानां लक्षमक्षतमीप्सितम्
नैवेद्यानि च देयानि स्वादूनि मधुराणि च
नानाविधानि पुष्पाणि तुलसीसंयुतानि च
ब्राह्मणानां सहस्रं च प्रत्यहं भोजयेद्व्रती