' स्वात्मबोधानुमानेन महात्मनि निवेदितम्
इत्युक्त्वा पार्वती प्रीत्या पपात स्वामिनः पदे
श्रीमहादेव उवाच फलानि चैव द्रव्याणि व्रतयोग्यानि यानि च
विप्राणां शतकं शुद्धं फलपुष्पोपहारकम्
दासीनां शतकं लक्षं नियुक्तं च पुरोहितम्
प्रवरं हरिभक्तानां सर्वज्ञं ज्ञानिनां वरम्
देवि शुद्धे च काले च परं नियमपूर्वकम्
गात्रं सुनिर्मलं कृत्वा शिरस्संस्कारपूर्वकम्
अरुणोदयवेलायां तल्पादुत्थाय सुव्रती
आचम्य यत्नपूतो हि हरिस्मरणपूर्वकम्
धौते च वाससी धृत्वा ह्युपविश्यासने शुचौ
घटं संस्थाप्य विधिवत्स्वस्तिवाचनपूर्वकम्
सङ्कल्पं वेदविहितं व्रतमेतत्समाचरेत्
देयानि नित्यं देवेशि कृष्णाय परमात्मने
स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च
यज्ञसूत्रं च ताम्बूलं कर्पूरादिसुवासितम्
देवि किञ्चिद्विहीनेन चाङ्गहानिः प्रजायते अंगहीने च कार्य्ये च फलहानिः प्रजायते
अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम्
सहस्रपत्रपद्मानामक्षतं लक्षकं तथा
अमूल्यरत्नरचितं दर्पणानां सहस्रकम्
नीलोत्पलानां लक्षं च देयं कृष्णाय भक्तितः
हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम्
अमूल्यरत्नरचितं पुटकानां सहस्रकम्
बन्धूकपुष्पलक्षं च देयं राधेश्वराय च
मुक्ताफलानां लक्षं च दन्तसौन्दर्यहेतवे
रत्नगण्डूषलक्षं च गण्डसौन्दर्य्यहेतवे
रत्नपाशकलक्षं च देयं ब्रह्मेश्वराय च
कर्णभूषणलक्षं च रत्नसारविनिर्म्मितम्
माध्वीककलशानां च लक्षं रत्नविनिर्म्मितम्