तेजीयसां न दोषाय विद्यमाने युगे युगे ।। 1.10.
शौनक उवाच अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ
सोतिरुवाच तपश्चकार कृष्णस्य लक्षवर्षं हिमालिये
महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम्
बभूवाकाशवाणीति कुरु दारपरिग्रहम्
पितॄणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम्
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्भयम्
कल्याणमित्रजननीं परित्यज्य महामुनिः
स सोदरश्च वा पूज्यो भवेति च सुराधम
इत्युक्त्वा सुतपा गेहं प्रतस्थे सूनुना सह 1.11.
पुत्राभ्यां व्याधियुक्ताभ्यां सूर्य्यस्त्रिजगतां पतिः
सूर्य्य उवाच मम पुत्रापराधं च भारद्वाज मुनीश्वर
ब्रह्मविष्णुमहेशाद्याः सुराः सर्वे च सन्ततम्
ब्राह्मणावाहिता देवाः शश्वद्विश्वेषु पूजिताः
ब्राह्मणे परितुष्टे च तुष्टो नारायणः स्वयम्
नास्ति गङ्गासमं तीर्थं न च कृष्णात्परः सुरः
न च सत्यात्परो धर्मो न साध्वी पार्वतीपरा
न च व्याधिसमः शत्रुर्न च पूज्यो गुरोः परः
एकादशीव्रतान्नान्यत्तपो नानशनात्परम्
सर्वाश्रमैः परो विप्रो नास्ति विप्रसमो गुरुः 1.11.
सूर्य्यस्य वचनं श्रुत्वा भारद्वाजो ननाम तम्
पश्चाच्च तव पुत्रौ च यज्ञभाजौ भविष्यतः
जगाम गङ्गां संत्रस्तो हरिसेवनतत्परः
बभूवतुस्तौ पूज्यौ च यज्ञभाजौ द्विजाशिषा विप्रपादप्रसादेन सर्वत्र विजयी भवेत्
ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत्
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत्
महारोगी यदि पिबेद्विप्रपादोदकं द्विज