वर्णानां च यथा विप्रस्तीर्थानां पुष्करं यथा
यथा पुण्यप्रदानां च तिथिरेकादशी स्मृता मासानां मार्गशीर्षश्चाप्यृतूनां माधवो यथा
संवत्सरो वत्सराणां युगानां च कृतं यथा साध्वी पत्नी यथाप्तानां विश्वस्तानां मनो यथा
यथा धनानां रत्नं च प्रियाणां च यथा पतिः
फलानां वै चूतफलं वर्षाणां भारतं तथा
यथा काशी पुरीणां च सूर्य्यस्तेजस्विनां यथा
शास्त्राणां च यथा वेदाः सिद्धानां कपिलो यथा
यशोदानां यथा विद्या कविता च मनोहरा
विभवानां हरिकथा सुखानां हरिचिन्तनम्
पापानां च यथा मिथ्या पापिनां पुंश्चली यथा
यथा घृतं च गव्यानां यथा ब्रह्मा तपस्विनाम्
पुण्यदानां यथा तोयं शुद्धानां च हुताशनः
गरुडः पक्षिणां चैव हस्तिनामिन्द्रवाहनम्
गन्धर्वाणां चित्ररथो जीवो बुद्धिमतां यथा
स्रोतस्वतां समुद्रश्च यथा पृथ्वी क्षमावताम्
पवित्राणां वैष्णवाश्च वर्णानां प्रणवो यथा
विदुषां च यथा वाणी गायत्री छन्दसां यथा
यथा पिता ते शैलानां गवां च सुरभिर्यथा
सुखदानां यथा लक्ष्मीर्मनो वै शीघ्रगामिनाम्
शालग्रामश्च मूर्तीनां पर्शूनां विष्णुपञ्जरः
यथा स्वान्तं चेन्द्रियाणां मन्दाग्निश्च रुजां यथा
महान्विराट् च स्थूलानां सूक्ष्माणां परमाणुकः
यथा दधीचिर्दातॄणां प्रह्रादश्चैव साधुषु
नृणां राजा रामचन्द्रो धन्विनां लक्ष्मणो यथा सर्वसारो यथा कृष्णो व्रतानां पुण्यकं यथा
व्रतं कुरु महाभागे त्रिषु लोकेषु दुर्लभम्
व्रताराध्यश्च वै कृष्णः सर्वेषां वाञ्छितप्रदः
हरिमन्त्रं गृहीत्वा च हरिसेवां करोति यः
उद्धृत्य कोटिपुरुषान्वैकुण्ठं याति निश्चितम्
सहोदरान्स्वभृत्यांश्च स्वबन्धून्सहचारिणः
' तस्माद्गृहाण गिरिजे हरेर्म्मन्त्रं सुदुर्लभम्