कामिनी मानसं काममप्रज्ञं स्वामिनं वदेत्
सुगोप्यं सर्वनारीणां लज्जाजननकारणम्
सुखेषु मध्ये स्त्रीणां च विभवेषु सुरेश्वर
तद्भंगेन च यद्दुःखं तत्समं नास्ति च स्त्रियाः
कृष्णपक्षे यथा चन्द्रः क्षीयमाणो दिने दिने
चिन्ताज्वरश्च सर्वेषामुपतापश्च वाससाम्
रतिभंगो दुःखमेकं द्वितीयं वीर्य्यपातनम्
त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वाऽपि न च मे सुतः
जन्मान्तरसुखं पुण्यं तपोदानसमुद्भवम्
सुपुत्रः स्वामिनोंऽशश्च स्वामितुल्यसुखप्रदः
स्वामी स्वांशेन सुस्त्रीणां गर्भे जन्म लभेद्ध्रुवम्
असाध्वी वैरितुल्या च शश्वत्सन्तापदायिनी
किमुपायं करिष्यामि वद योगीश्वरेश्वर
इत्युक्त्वा पार्वती देवी नम्रवक्त्रा बभूव ह
सत्पुत्रबीजं सुखदं तापनाशनकारणम्
श्रीमहादेव उवाच उपायतः कार्य्यसिद्धिर्भवत्येव जगत्त्रये
सर्ववांछितसिद्धेस्तु बीजरूपं सुमङ्गलम्
हरेराराधनं कृत्वा व्रतं कुरु वरानने
महाकठोरबीजं च वाञ्छाकल्पतरुं परम्
नदीनां च यथा गंगा देवानां च हरिर्यथा
वर्णानां च यथा विप्रस्तीर्थानां पुष्करं यथा
यथा पुण्यप्रदानां च तिथिरेकादशी स्मृता मासानां मार्गशीर्षश्चाप्यृतूनां माधवो यथा
संवत्सरो वत्सराणां युगानां च कृतं यथा साध्वी पत्नी यथाप्तानां विश्वस्तानां मनो यथा
यथा धनानां रत्नं च प्रियाणां च यथा पतिः
फलानां वै चूतफलं वर्षाणां भारतं तथा
यथा काशी पुरीणां च सूर्य्यस्तेजस्विनां यथा
शास्त्राणां च यथा वेदाः सिद्धानां कपिलो यथा
यशोदानां यथा विद्या कविता च मनोहरा
विभवानां हरिकथा सुखानां हरिचिन्तनम्
पापानां च यथा मिथ्या पापिनां पुंश्चली यथा