इत्येवं स्तवनं श्रुत्वा योगज्ञानविशारदः
दृष्ट्वा सुरान्भयार्त्तश्च पुनः स्तोतुं समुद्यतान्
उत्तिष्ठतो महेशस्य त्रासलज्जायुतस्य च
पश्चात्तां कथयिष्यामि कथामतिमनोहराम्
नारायण उवाच पलायध्वमिति प्राह कृपया पार्वतीभयात्
देवाः पलायिता भीताः पार्वतीशापहेतुना
तल्पादुत्थाय सा दुर्गा न च दृष्ट्वा पुरस्सुरान्
अद्यप्रभृति ते देवा व्यर्थवीर्य्या भवन्त्विति
ततः शिवः शिवां दृष्ट्वा क्रोधसंरक्तलोचनाम्
शिवस्तां दुःखितां दृष्ट्वा क्रोधसंरक्तलोचनाम्
अतीव भीतः संत्रस्त उवाच मधुरं वचः कथं रुष्टा गिरिश्रेष्ठकन्ये धन्ये मनोहरे
मम सौभाग्यरूपे च प्राणाधिष्ठातृदेवते
ब्रह्माण्डसंघे निखिले किमसाध्यमिहावयोः
दैवादज्ञातदोषस्य शान्तिं मे कर्त्तुमर्हसि
त्वया विना हीश्वरश्च शवतुल्योऽशिवः सदा
तुष्टिस्त्वं च तथा पुष्टिः शान्तिस्त्वं क्षान्तिरेव च
सर्वाधारस्वरूपा त्वं सर्वबीजस्वरूपिणी
त्वत्कोपविषसंदग्धं द्रुतं जीवय मां मृतम्
शंकरस्य वचः श्रुत्वा क्षमायुक्ता च पार्वती
पार्वत्युवाच आत्मारामं पूर्णकामं सर्वदेहेष्ववस्थितम्
कामिनी मानसं काममप्रज्ञं स्वामिनं वदेत्
सुगोप्यं सर्वनारीणां लज्जाजननकारणम्
सुखेषु मध्ये स्त्रीणां च विभवेषु सुरेश्वर
तद्भंगेन च यद्दुःखं तत्समं नास्ति च स्त्रियाः
कृष्णपक्षे यथा चन्द्रः क्षीयमाणो दिने दिने
चिन्ताज्वरश्च सर्वेषामुपतापश्च वाससाम्
रतिभंगो दुःखमेकं द्वितीयं वीर्य्यपातनम्
त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वाऽपि न च मे सुतः
जन्मान्तरसुखं पुण्यं तपोदानसमुद्भवम्
सुपुत्रः स्वामिनोंऽशश्च स्वामितुल्यसुखप्रदः