सुगन्धिकुसुमाश्लेषिवायुना सुरभीकृते
दृष्ट्वा तयोस्तच्छृङ्गारं चिन्तां प्रापुः सुराः पराम्
तं नत्वा कथयामास ब्रह्मा वृत्तान्तमीप्सितम्
ब्रह्मोवाच रतौ रतश्च निश्चेष्टो न योगी विरराम ह
मैथुनस्य विरामे च दम्पत्योर्जगदीश्वर
श्रीभगवानुवाच मयि ये शरणापन्नास्तेषां दुखं कुतो विधे
येनोपायेन तद्वीर्यं भूमौ पतति निश्चितम्
यदा च शम्भोर्वीर्य्यं तत्पार्वत्या उदरे पतेत्
ततः शक्रादयः सर्वे सुरा नारायणाज्ञया
तत्रैव पर्वतद्रोणीबहिर्देशे सुराः पराः
शक्रो राजा कुबेरं च कुबेरो वरुणं तथा
हुताशनं यमश्चैव भास्करं च हुताशनः
एवं देवाः प्रेरयन्ति देवांश्च रतिभञ्जने
द्वारि स्थितो वक्रशिराः शक्रः प्राह महेश्वरम्
इन्द्र उवाच जगदीश जगद्बीज भक्तानां भयभञ्जन
हरिर्जगामेत्युक्त्वा तमाजगाम च भास्करः
श्रीसूर्य्य उवाच सुरश्रेष्ठ महाभाग पार्वतीश नमोऽस्तु ते
इत्येवमुक्त्वा श्रीसूर्य्यः स जगाम भयात्ततः
चन्द्र उवाच आत्माराम स्वयंपूर्ण पुण्यश्रवणकीर्त्तन
पवन उवाच धर्मार्थकाममोक्षाणां बीजरूप सनातन
इत्येवं स्तवनं श्रुत्वा योगज्ञानविशारदः
दृष्ट्वा सुरान्भयार्त्तश्च पुनः स्तोतुं समुद्यतान्
उत्तिष्ठतो महेशस्य त्रासलज्जायुतस्य च
पश्चात्तां कथयिष्यामि कथामतिमनोहराम्
नारायण उवाच पलायध्वमिति प्राह कृपया पार्वतीभयात्
देवाः पलायिता भीताः पार्वतीशापहेतुना
तल्पादुत्थाय सा दुर्गा न च दृष्ट्वा पुरस्सुरान्
अद्यप्रभृति ते देवा व्यर्थवीर्य्या भवन्त्विति
ततः शिवः शिवां दृष्ट्वा क्रोधसंरक्तलोचनाम्
शिवस्तां दुःखितां दृष्ट्वा क्रोधसंरक्तलोचनाम्