पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः 1.10.
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवः
बन्धुता येन सार्द्ध च तन्मित्रं परिकीर्तितम्
बान्धवो दुःखदो दैवान्निस्सम्बन्धोऽसुखप्रदः
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः
मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः
चतुर्थं नामसम्बन्धमित्याह कमलोद्भवः
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी
सम्बन्धो देशभेदे च सर्वदेशे विगर्हितः
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते
तेजीयसां न दोषाय विद्यमाने युगे युगे ।। 1.10.
शौनक उवाच अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ
सोतिरुवाच तपश्चकार कृष्णस्य लक्षवर्षं हिमालिये
महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम्
बभूवाकाशवाणीति कुरु दारपरिग्रहम्
पितॄणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम्
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्भयम्
कल्याणमित्रजननीं परित्यज्य महामुनिः
स सोदरश्च वा पूज्यो भवेति च सुराधम
इत्युक्त्वा सुतपा गेहं प्रतस्थे सूनुना सह 1.11.
पुत्राभ्यां व्याधियुक्ताभ्यां सूर्य्यस्त्रिजगतां पतिः
सूर्य्य उवाच मम पुत्रापराधं च भारद्वाज मुनीश्वर
ब्रह्मविष्णुमहेशाद्याः सुराः सर्वे च सन्ततम्
ब्राह्मणावाहिता देवाः शश्वद्विश्वेषु पूजिताः
ब्राह्मणे परितुष्टे च तुष्टो नारायणः स्वयम्
नास्ति गङ्गासमं तीर्थं न च कृष्णात्परः सुरः
न च सत्यात्परो धर्मो न साध्वी पार्वतीपरा
न च व्याधिसमः शत्रुर्न च पूज्यो गुरोः परः
एकादशीव्रतान्नान्यत्तपो नानशनात्परम्