वर्द्धते पुत्रपौत्रादिर्यशस्वी तत्प्रसादतः लभेत्कृष्णस्य दास्यं स भक्तिं कृष्णे सुनिश्चलाम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने ब्रह्माण्डमोहनकवचं नाम सप्तषष्टितमोऽध्यायः
श्रीगणेशाय नमः श्रीगुरुभ्यो नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
नारद उवाच सर्वोत्कृष्टमभीष्टं च मूढानां ज्ञानवर्दनम्
अधुना श्रीगणेशस्य खण्डं श्रोतुमिहागतः
कथं जज्ञे सुरश्रेष्ठः पार्वत्या उदरे शुभे
स चांशः कस्य देवस्य कथं जन्म ललाभ सः
किं वा तद्ब्रह्मतेजो वा किं तस्य च पराक्रमः
कथं तस्य पुरःपूजा विश्वेषु निखिलेषु च
पुराणेषु निगूढं च तज्जन्म परिकीर्त्तितम्
एतत्सर्वं समाचक्ष्व श्रोतुं कौतूहलं मम
श्रीनारायण उवाच पापसन्तापहरणं सर्वविघ्नविनाशनम्
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम्
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा
सा च नाम्ना सती देवी स्वामिनो निन्दया पुरा
शङ्कराय ददौ तां च पार्वतीं पर्वतो मुदा
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम्
सहस्रवर्षपर्य्यन्तं दैवमानेन नारद
दुर्गांगस्पर्शमात्रेण मदनान्मूर्च्छितः शिवः
हंसकारण्डवाकीर्णे पुंस्कोकिलरुताकुले
सुगन्धिकुसुमाश्लेषिवायुना सुरभीकृते
दृष्ट्वा तयोस्तच्छृङ्गारं चिन्तां प्रापुः सुराः पराम्
तं नत्वा कथयामास ब्रह्मा वृत्तान्तमीप्सितम्
ब्रह्मोवाच रतौ रतश्च निश्चेष्टो न योगी विरराम ह
मैथुनस्य विरामे च दम्पत्योर्जगदीश्वर
श्रीभगवानुवाच मयि ये शरणापन्नास्तेषां दुखं कुतो विधे
येनोपायेन तद्वीर्यं भूमौ पतति निश्चितम्
यदा च शम्भोर्वीर्य्यं तत्पार्वत्या उदरे पतेत्
ततः शक्रादयः सर्वे सुरा नारायणाज्ञया
तत्रैव पर्वतद्रोणीबहिर्देशे सुराः पराः