गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः
भ्रमणे सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम्
न तस्य मृत्युर्भवति जले वह्नौ विशेद्ध्रुवम्
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् 2.67.
या चैव मूलप्रकृतिर्यस्याः पुत्रो गणेश्वरः
स्वांशेन कृष्णो भगवान्बभूव च गणेश्वरः
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च काञ्चनम्
वासोऽलंकाररत्नैश्च तोषयेद्वाचकं मुने
पुस्तकं पूजयेदेवं भक्तिश्रद्धासमन्वितः
वर्द्धते पुत्रपौत्रादिर्यशस्वी तत्प्रसादतः लभेत्कृष्णस्य दास्यं स भक्तिं कृष्णे सुनिश्चलाम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने ब्रह्माण्डमोहनकवचं नाम सप्तषष्टितमोऽध्यायः
श्रीगणेशाय नमः श्रीगुरुभ्यो नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
नारद उवाच सर्वोत्कृष्टमभीष्टं च मूढानां ज्ञानवर्दनम्
अधुना श्रीगणेशस्य खण्डं श्रोतुमिहागतः
कथं जज्ञे सुरश्रेष्ठः पार्वत्या उदरे शुभे
स चांशः कस्य देवस्य कथं जन्म ललाभ सः
किं वा तद्ब्रह्मतेजो वा किं तस्य च पराक्रमः
कथं तस्य पुरःपूजा विश्वेषु निखिलेषु च
पुराणेषु निगूढं च तज्जन्म परिकीर्त्तितम्
एतत्सर्वं समाचक्ष्व श्रोतुं कौतूहलं मम
श्रीनारायण उवाच पापसन्तापहरणं सर्वविघ्नविनाशनम्
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम्
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा
सा च नाम्ना सती देवी स्वामिनो निन्दया पुरा
शङ्कराय ददौ तां च पार्वतीं पर्वतो मुदा
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम्
सहस्रवर्षपर्य्यन्तं दैवमानेन नारद
दुर्गांगस्पर्शमात्रेण मदनान्मूर्च्छितः शिवः
हंसकारण्डवाकीर्णे पुंस्कोकिलरुताकुले