पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः 2.66.
राजद्वारे श्मशाने च महारण्ये रणस्थले
गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते
महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने दुर्गास्तोत्रं नाम षट्षष्टितमोऽध्यायः
नारद उवाच ब्रह्माण्डमोहनं नाम प्रकृतेः कवचं वद
नारायण उवाच श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा
ब्रह्मणा कथितं सर्वं धर्मार्थं जाह्नवीतटे
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा जघान रक्तबीजं तं यत्कृत्वा भद्रकालिका
यद्धृत्वा तु महेन्द्रश्च संप्राप कमलालयाम्
यद्धृत्वा च महाज्ञानी नन्दी सानन्दपूर्वकम्
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः
ॐ दुर्गे रक्षयति च कण्ठं पातु सदा मम 2.67.
ॐ ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा
ॐ श्रीं ह्रीं क्लीं पातु सर्वाङ्गं स्वप्ने जागरणे तथा
दक्षिणे भद्रकाली च नैर्ऋत्यां च महेश्वरी
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया
इति ते कथितं वत्स कवचं च सुदुर्लभम्
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः
भ्रमणे सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम्
न तस्य मृत्युर्भवति जले वह्नौ विशेद्ध्रुवम्
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् 2.67.
या चैव मूलप्रकृतिर्यस्याः पुत्रो गणेश्वरः
स्वांशेन कृष्णो भगवान्बभूव च गणेश्वरः
भोजयित्वा च दध्यन्नं तस्मै दद्याच्च काञ्चनम्
वासोऽलंकाररत्नैश्च तोषयेद्वाचकं मुने
पुस्तकं पूजयेदेवं भक्तिश्रद्धासमन्वितः