इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने प्रकृतिसुरथसंवादे ज्ञानकथनं नाम पञ्चषष्टितमोऽध्यायः
नारद उवाच प्रकृतेः कवचं स्तोत्रं ब्रूहि मे मुनिसत्तम
नारायण उवाच संपूज्य मधुमासे च संप्रीते रासमण्डले
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे
पुरा त्रिपुरयुद्धे च महाघोरतरे मुने
शक्रेण सर्वदेवैश्च घोरे च प्राणसङ्कटे
संस्तुता पूजिता सा च कल्पे कल्पे परात्परा सुखदं मोक्षदं सारं भवसन्तारकारणम्
श्रीकृष्ण उवाच त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका
कार्य्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्
तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया 2.66.
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम्
निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया
श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा
प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा
देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी
योगिनिद्रा योगरूपा योगदात्री च योगिनाम्
ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे
महायुद्धे महामारी दुष्टसंहाररूपिणी 2.66.
वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम्
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी
तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते
दुरत्यया मे माया त्वं यया संमोहितं जगत्
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम्
वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा
कारागारे महाघोरे यो बद्धो दृढबन्धने
यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी