ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च
ब्रह्मविष्णुशिवादीनामहमाद्या परात्परा
नित्या ऽनित्या सर्वरूपा सर्वकारणकारणम्
पुण्ये वृन्दावने रम्ये गोलोके रासमण्डले
सावित्री वेदमाताऽहं ब्रह्माणी ब्रह्मलोकतः
नानाविधाऽहं कलया मायया सर्वयोषितः
भ्रूभंगलीलया सृष्टो येन पुंसा महान्विराट्
असंख्यानि च तान्येव कृत्रिमाणि च मायया 2.65.
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा
एवं विश्वं बहुविधं ब्रह्माण्डं ब्रह्मणा कृतम्
सर्वेषामीश्वरः कृष्ण इति ज्ञानं परात्परम्
देवानां चैव सर्वेषां सारः कृष्ण इति स्मृतः
पवित्राणि च तीर्थानि तद्भक्तस्पर्शवायुना
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत्
मातामहानां शतकं पितॄणां च सहस्रकम्
इदं ज्ञानं सारभूतं कथितं ते नराधिप
अहं यमनुगृह्णामि तस्मै दास्यामि निर्मलाम् 2.65.
करोमि वञ्चनां यं यं तेभ्यो दास्यामि सम्पदम्
इति ते कथितं ज्ञानं गच्छ वत्स यथासुखम्
राजा संप्राप्य राज्यं च नत्वा तां प्रययौ गृहम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने प्रकृतिसुरथसंवादे ज्ञानकथनं नाम पञ्चषष्टितमोऽध्यायः
नारद उवाच प्रकृतेः कवचं स्तोत्रं ब्रूहि मे मुनिसत्तम
नारायण उवाच संपूज्य मधुमासे च संप्रीते रासमण्डले
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे
पुरा त्रिपुरयुद्धे च महाघोरतरे मुने
शक्रेण सर्वदेवैश्च घोरे च प्राणसङ्कटे
संस्तुता पूजिता सा च कल्पे कल्पे परात्परा सुखदं मोक्षदं सारं भवसन्तारकारणम्
श्रीकृष्ण उवाच त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका
कार्य्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्
तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा