नारायण उवाच उत्तरेणार्च्चयित्वा तां श्रवणायां विसर्जयेत्
आर्द्रायुक्तनवम्यां तु कृत्वा देव्याश्च बोधनम्
मूलायां तु प्रवेशे च नरमेधफलं लभेत्
कृत्वा विसर्जनं देव्याः श्रवणायां च मानवः
भुवः प्रदक्षिणं पुण्यं पूजायां लभते नरः
नवम्यां बोधनं कृत्वा पक्षं संपूज्य मानवः
सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः
अष्टम्यां बलिदानेन विपत्तिर्जायते नृणाम्
बलिदानेन विप्रेन्द्र दुर्गाप्रीतिर्भवेन्नृणाम् 2.65.
उत्सर्गकर्त्ता दाता च च्छेत्ता पोष्टा च रक्षकः
यो यं हन्ति स तं हन्ति नेति वेदोक्तमेव च
एवं संपूज्य सुरथः पूर्णं वर्षं च भक्तितः
स्तोत्रेण परितुष्टा सा तस्य साक्षाद्बभूव ह
तेजस्वरूपां परमां सगुणां निर्गुणां वराम्
स्वेच्छामयीं कृपारूपां भक्तानुग्रहकारिणीम्
स्तवेन परितुष्टा सा सस्मिता भक्तिपूर्वकम्
प्रकृतिरुवाच ददामि तुभ्यं विभवं साम्प्रतं वाञ्छितं तव
निर्जित्य सर्वाञ्छत्रूंश्च लब्ध्वा राज्यमकण्टकम्
दास्यामि तुभ्यं ज्ञानं च परिणामे नराधिप 2.65.
वृणोति विभवं यो हि साक्षान्मां प्राप्य मन्दधीः
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च
ब्रह्मविष्णुशिवादीनामहमाद्या परात्परा
नित्या ऽनित्या सर्वरूपा सर्वकारणकारणम्
पुण्ये वृन्दावने रम्ये गोलोके रासमण्डले
सावित्री वेदमाताऽहं ब्रह्माणी ब्रह्मलोकतः
नानाविधाऽहं कलया मायया सर्वयोषितः
भ्रूभंगलीलया सृष्टो येन पुंसा महान्विराट्
असंख्यानि च तान्येव कृत्रिमाणि च मायया 2.65.
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा
एवं विश्वं बहुविधं ब्रह्माण्डं ब्रह्मणा कृतम्