अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया
तरुनिर्य्यासचूर्णं च गन्धवस्तुसमन्वितम्
दिव्यरत्नविशेषं च सान्द्रध्वान्तनिवारकम्
रत्नसारगणाकीर्णं दिव्यं पर्य्यङ्कमुत्तमम् 2.64.
एवं संपूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने
उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम्
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा
आदौ महाभैरवं च तथा संहारभैरवम्
कालभैरवमप्येवं क्रोधभैरवमेव च
एतान्संपूज्य मध्ये वै नव शक्तींश्च पूजयेत्
ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा
सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्गलाम्
शङ्करं कार्त्तिकेयं च सूर्य्यं सोमं हुताशनम्
चतुष्षष्टिं योगिनीनां संपूज्य विधिपूर्वकम् 2.64.
कवचं च गले बद्ध्वा पठित्वा भक्तिपूर्वकम्
बलिदानविधानं च श्रूयतां मुनिसत्तम
सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः
वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा
कृत्रिमैः पिष्टकलितैः षण्मासं पशुभिस्तथा
युवकं व्याधिहीनं च सशृंगं लक्षणान्वितम्
शिशुना बलिना दातुर्हन्ति पुत्रं च चण्डिका
घुटिकेन भवेन्मृत्युर्विघ्नं स्याच्चित्रमस्तकैः
मायातीनां स्वरूपं च श्रूयतां मुनिसत्तम 2.64.
पितृमातृविहीनं च युवकं व्याधिवर्जितम्
अजारजं विशुद्धं च सच्छूद्रपरिपोषितम्
स्नापयित्वा च तं कर्त्ता पूजयेद्वस्त्रचन्दनैः
तं च वर्षं भ्रामयित्वा भृत्यद्वारेण यत्नतः
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च
बलिं स्तुत्वा च दत्त्वा च धृत्वा च कवचं बुधः
नारद उवाच स्तोत्रं च कवचं पूजाफलं कालं वद प्रभो