अमूल्यरत्नपात्रस्थं निर्मलं जाह्नवीजलम्
सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम्
कस्तूरीकुंकुमाक्तं च सुगन्धि द्रुतचन्दनम्
माध्वीकं रत्नपात्रस्थं सुपवित्रं सुमङ्गलम् 2.64.
सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम्
पवित्रं शंखपात्रस्थं दूर्वापुष्पाक्षतान्वितम्
सुगन्धि पुष्पश्रेष्ठं च पारिजाततरूद्भवम्
दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम्
सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम्
गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम्
अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया
तरुनिर्य्यासचूर्णं च गन्धवस्तुसमन्वितम्
दिव्यरत्नविशेषं च सान्द्रध्वान्तनिवारकम्
रत्नसारगणाकीर्णं दिव्यं पर्य्यङ्कमुत्तमम् 2.64.
एवं संपूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने
उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम्
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा
आदौ महाभैरवं च तथा संहारभैरवम्
कालभैरवमप्येवं क्रोधभैरवमेव च
एतान्संपूज्य मध्ये वै नव शक्तींश्च पूजयेत्
ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा
सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्गलाम्
शङ्करं कार्त्तिकेयं च सूर्य्यं सोमं हुताशनम्
चतुष्षष्टिं योगिनीनां संपूज्य विधिपूर्वकम् 2.64.
कवचं च गले बद्ध्वा पठित्वा भक्तिपूर्वकम्
बलिदानविधानं च श्रूयतां मुनिसत्तम
सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः
वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा
कृत्रिमैः पिष्टकलितैः षण्मासं पशुभिस्तथा
युवकं व्याधिहीनं च सशृंगं लक्षणान्वितम्