जीवहत्या विहीना या वरा पूजा तु वैष्णवी
माहेश्वरी राजसी च बलिदानसमन्विता
किरातास्त्रिदिवं यान्ति तामस्या पूजया तया
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः 2.64.
सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा
दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह
त्रिपद्या उपरिष्टात्तु शंखं संस्थापयेत्तु सः
धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः प्रभूतः शंखचूडात्त्वं पुरा कल्पे पवित्रकः
ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः
त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च
त्रिपदीं स्थापयेत्तत्र त्रिपद्यां शंखमेव च
गङ्गे च यमुने चैव गोदावरि सरस्वति
स्वर्णरेखे कनखले पारिभद्रे च गण्डकि
पद्मावति त्रिपर्णाशे विपाशे विरजे प्रभे 2.64.
वह्निं सूर्य्यं च चन्द्रं च विष्णुं च वरुणं शिवम् नैवेद्यानि च सर्वाणि प्रोक्षयेत्तज्जलेन च
प्रत्येकं वै ततो दद्यादुपचारांश्च षोडश
मधुपर्कं गन्धमर्घ्यं पुष्पं नैवेद्यमीप्सितम्
धूपं प्रदीपं तल्पं चेत्युपचारास्तु षोडश
अमूल्यरत्नसंक्लृप्तं नानाचित्र विराजितम्
अनन्तसूत्रप्रभवमीश्वरेच्छाविनिर्मितम्
अमूल्यरत्नपात्रस्थं निर्मलं जाह्नवीजलम्
सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम्
कस्तूरीकुंकुमाक्तं च सुगन्धि द्रुतचन्दनम्
माध्वीकं रत्नपात्रस्थं सुपवित्रं सुमङ्गलम् 2.64.
सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम्
पवित्रं शंखपात्रस्थं दूर्वापुष्पाक्षतान्वितम्
सुगन्धि पुष्पश्रेष्ठं च पारिजाततरूद्भवम्
दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम्
सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम्
गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम्