रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम्
संहारकाले संहर्त्तुः परां संहाररूपिणीम्
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् 2.64.
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः
एह्येहि भगवत्यम्ब शिवलोकात्सनातनि
इहागच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि
इहागच्छन्तु त्वत्प्राणाश्चाधिप्राणैः सहाच्युते
ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च
सर्वेन्द्रियाधिदेवास्ते इहागच्छन्तु चण्डिके
स इहागच्छेत्यावाह्य परिहारं करोति च
स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये 2.64.
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम
अद्य मे सफलं जन्म सार्थकं जीवनं मम
भारते भवतीं पूज्यां दुर्गां यः पूजयेद् बुधः
कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः
सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी
सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी
जीवहत्या विहीना या वरा पूजा तु वैष्णवी
माहेश्वरी राजसी च बलिदानसमन्विता
किरातास्त्रिदिवं यान्ति तामस्या पूजया तया
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः 2.64.
सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा
दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह
त्रिपद्या उपरिष्टात्तु शंखं संस्थापयेत्तु सः
धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः प्रभूतः शंखचूडात्त्वं पुरा कल्पे पवित्रकः
ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः
त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च