नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम्
मुक्तापंक्तिविनिन्द्यैकदन्तपंक्तिसुशोभिताम्
चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम्
रत्नकङ्कणभूषाढ्यां रत्नपाशंकशोभिताम् ।। 2.64.
पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम्
बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम्
अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु
शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम्
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम्
चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम्
रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम्
संहारकाले संहर्त्तुः परां संहाररूपिणीम्
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् 2.64.
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः
एह्येहि भगवत्यम्ब शिवलोकात्सनातनि
इहागच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि
इहागच्छन्तु त्वत्प्राणाश्चाधिप्राणैः सहाच्युते
ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च
सर्वेन्द्रियाधिदेवास्ते इहागच्छन्तु चण्डिके
स इहागच्छेत्यावाह्य परिहारं करोति च
स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये 2.64.
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम
अद्य मे सफलं जन्म सार्थकं जीवनं मम
भारते भवतीं पूज्यां दुर्गां यः पूजयेद् बुधः
कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः
सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी
सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी