एवंविधानां विश्वानां संख्या नास्त्येव पुत्रक
देवा देवर्षयश्चैव मनवो मानवादयः
महाविष्णोर्लोमकूपे सन्ति विश्वानि यस्य च
भज सत्यं परं ब्रह्म नित्यं निर्गुणमच्युतम्
निरीहं च निराकारं निर्विकारं निरञ्जनम्
स्वेच्छामयं सर्वरूपं भक्तानुग्रहविग्रहम्
ध्यानासाध्यं दुराराध्यं शिवादीनां च योगिनाम्
सर्वाधारं च सर्वज्ञं सर्वानन्दकरं परम्
दास्यदं धर्मदं चैव सर्वसिद्धिप्रदं सताम् 2.63.
परात्परतरं शुद्धं परिपूर्णतमं शिवम्
कृष्णेति द्व्यक्षरं मन्त्रं गृहीत्वा कृष्णदास्यदम्
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेत्तव
वैश्यो नत्वा च तां भक्त्या चागमत्पुष्करं मुने भगवत्याः प्रसादेन कृष्णदासो बभूव सः
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसं वादे दुर्गोपाख्याने सुरथसमाधिमेधस्संवादे प्रकृतिवैश्यसंवादकथनं नाम त्रिषष्टितमोऽध्यायः
नारायण उवाच तच्छ्रूयतां महाभाग वेदोक्तं क्रममेव च
स्नात्वाऽऽचम्य महाराजः कृत्वा न्यासत्रयं तदा
प्राणायामं ततः कृत्वा कृत्वा च शङ्खशोधनम्
पुनर्ध्यात्वा च भक्त्या च पूजयामास भक्तितः
संपूज्य भक्तिभावेन भक्त्या परमधार्मिकः
भक्त्या च पूजयामास विधिपूर्वं च नारद
देवषट्कं च संपूज्य नमस्कृत्य विचक्षणः
ध्यानं च सामवेदोक्तं परं कल्पतरुं मुने
ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम्
सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् 2.64.
सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम्
कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम्
तप्तकाञ्चनवर्णाभां कोटिसूर्य्यसमप्रभाम्
दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम्
त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम्
वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम्