नारद उवाच राजा केन प्रकारेण सिषेवे प्रकृतिं पराम्
समाधिर्नाम वैश्यो वा निष्कामं निर्गुणं विभुम्
किं वा पूजाविधानं च ध्यानं वा मनुरेव च
वैश्याय प्रकृतिस्तस्मै किं वा ज्ञानं ददौ परम्
ज्ञानं संप्राप्य वैश्यश्च किं पदं प्राप दुर्लभम्
श्रीनारायण उवाच स्तोत्रं च कवचं देव्या ध्यानं चैव पुरस्क्रियाम्
स्नात्वा त्रिकालं वर्षं च ततः शुद्धो बभूव सः
राज्ञे ददौ राज्यवरं मनुत्वं वाञ्छितं सुखम्
यद्दत्तं शूलिने पूर्वं कृष्णेन परमात्मना
रुरोद कृत्वा क्रोडे तमचेष्टं श्वासवर्जितम् 2.63.
चेतनां च ददौ तस्मै स्वयं चैतन्यरूपिणी
तमुवाच प्रसन्नाऽसौ कृपयाऽतिकृपामयी
श्रीप्रकृतिरुवाच ब्रह्मत्वममरत्वं वा ततो वाऽतिसुदुर्लभम्
इन्द्रत्वं वा मनुत्वं वा सर्वसिद्धत्वमेव च
वैश्य उवाच ततोऽतिदुर्लभं किं वा न जाने तदभीप्सितम्
त्वय्येव शरणापन्नो देहि यद्वाञ्छितं तव
प्रकृतिरुवाच यतो यास्यसि गोलोकं पदमेव सुदुर्लभम्
सर्वसारं च यज्ज्ञानं सुरर्षीणां सुदुर्लभम्
स्मरणं वन्दनं ध्यानमर्चनं गुणकीर्त्तनम्
एतदेवं वैष्णवानां नवधा भक्तिलक्षणम् 2.63.
आयुर्हरति लोकानां रविरेव हि सन्ततम्
भक्तास्तद्गतचित्ताश्च वैष्णवाश्चिरजीविनः
शिवः शेषश्च धर्मश्च ब्रह्मा विष्णुर्महान्विराट्
वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः
मेधावी लोमशः शुक्रो वसिष्ठः क्रतुरेव च
मार्कण्डेयो बलिश्चैव प्रह्लादश्च गणेश्वरः
अकूपार उलूकश्च नाडीजंघश्च वायुजः
नवधा भक्तियुक्ताश्च कृष्णस्य परमात्मनः
ये तद्भक्तास्ते तदंशा जीवन्मुक्ताश्च सन्ततम्
ऊर्ध्वं च सप्त स्वर्गाश्च सप्तद्वीपा वसुन्धरा 2.63.