ब्राह्मणाय ददौ नित्यं रत्नकोटिं दिने दिने
कोपान्निराकृतस्तैश्च पुनरन्वेषितः शुचा
पुत्राश्च पितृशोकेन गृहं त्यक्त्वा ययुर्वनम्
सुदुर्लभं हरेर्दास्यं वैश्यस्यास्य च वाञ्छितम्
श्रीमेधा उवाच निर्गुणस्य च कृष्णस्य त्रिगुणा विश्वमाज्ञया
कृपां करोति येषां सा धर्मिणां च कृपामयी
येषां मायाविनां माया न करोति कृपां नृप 2.62.
नश्वरेऽनित्यसंसारे भ्रामयेद्बर्बरा सदा
देवमन्यं निषेवन्ते तन्मन्त्रं च जपंति च
सप्तजन्मसु संसेव्य देवताश्च हरेः कलाः
सप्तजन्मसु संसेव्य विष्णुमायां कृपामयीम्
ज्ञानाधिष्ठातृदेवं च हरेस्संसेव्य शङ्करम्
सेवन्ते सगुणं सत्त्वं विष्णुं विषयिणं तदा
निषेव्य सगुणं विष्णुं सात्त्विका वैष्णवा नराः
गृह्णन्ति सन्तस्तद्भक्ता मन्त्रं तस्य निरामयम्
असंख्यब्रह्मणां पातं ते च पश्यन्ति वैष्णवाः
कृष्णभक्तात्कृष्णमन्त्रं यो गृह्णाति नरोत्तमः 2.62.
मातामहानां साहस्रमुद्धरेन्मातरं तथा
भवार्णवे महाघोरे कर्णधारस्वरूपिणी
स्वकर्मबन्धनं छेत्तुं वैष्णवानां च वैष्णवी
विवेचिका चावरणी शक्तेः शक्तिर्द्विधा नृप
सत्यस्वरूपः श्रीकृष्णस्तस्मात्सर्वं च नश्वरम्
नित्यरूपा ममेयं श्रीरिति चावरणी च धीः
अहं प्रचेतसः पुत्रः पौत्रश्च ब्रह्मणो नृप
गच्छ राजन्नदीतीरं भज दुर्गां सनातनीम्
निष्कामाय च वैश्याय वैष्णवाय च वैष्णवी
इत्युक्त्वा च मुनिश्रेष्ठो ददौ ताभ्यां कृपानिधिः ।। 2.62.
वैश्यो मुक्तिं च संप्राप तां निषेव्य कृपामयीम्
इत्येवं कथितं सर्वं दुर्गोपाख्यानमुत्तमम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारदनारायणसंवादे दुर्गोपाख्याने सुरथमेधस्संवादे सुरथवैश्ययोरभिलषितसिद्धिर्नाम द्विषष्टितमोऽध्यायः