विप्रो रोषेण तत्याज तं च पुत्रं स्वकामिनीम् 1.10.
पुत्रं चिकित्साशास्त्रं च पाठयामास यत्नतः
विप्रश्च वेतनाज्योतिर्गणनाच्च निरन्तरम्
लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान्
कश्चित्पुमान्ब्रह्मयज्ञे यज्ञकुण्डात्समुत्थितः
पुराणं पाठयामास तं च ब्रह्मा कृपानिधिः
वैश्यायां सूतवीर्य्येण पुमानेको बभूव ह
एवं ते कथितः किंचित्पृथिव्यां जातिनिर्णय
सबन्धो येषु येषां यः सर्वजातिषु सर्वतः
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः
पितामहः पितृपिता तत्पिता प्रपितापहः 1.10.
मातामहः पिता मातुः प्रमातामह एव च
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही
मातामही मातृमाता मातृतुल्या च पूजिता
वृद्धमातामही ज्ञेया पत्पितुः कामिनी तथा
पितृष्वसा पितुर्मातृष्वसा मातुस्स्वसा स्मृता
धनभाग्वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते
पुत्रपत्नी वधू ज्ञेया जामाता दुहितुः पतिः
देवरः स्वामिनो भ्राता ननांदा स्वामिनः स्वसा
भार्य्या जाया प्रिया कान्ता स्त्री व पत्नी प्रकीर्तिता
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः 1.10.
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना
अन्नदाता भयत्राता पत्नीतातस्तथैव च
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा
मातुर्माता पितुर्माता श्वश्रूपित्रोः स्वसा तथा
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बांधवाः
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः
गुरुकन्या च भगिनी पोष्या मातृसमा मुने