भावानुरक्तवनितां प्राप्य संहृष्टमानसः
तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान्
घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा
अतीव यौवनस्थां च बालां षोडशवार्षिकीम्
तस्यामथायं रहसि वीर्य्याधानं चकार सः
सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली
मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने
शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् 2.61.
ददौ द्विजातये राजा नित्यं वै जीवितावधि
तस्य पुत्रश्च सुरथश्चक्रवर्त्ती बृहच्छ्रवाः
भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते
वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम
तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः
कृत्वा समाधिं संप्राप ज्ञानिनां वैष्णवाग्रणीः
स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ
राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने
नारद उवाच वैश्यो मुक्तिं मेधसश्च तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच स्वायम्भुवमनोर्वंश्यः सत्यवादी जितेन्द्रियः
अक्षौहिणीनां शतकं गृहीत्वा सैन्यमेव च
युद्धं बभूव नियतं पूर्णमब्दं च नारद
एकाकी सुरथो भीतो नन्दिना च बहिष्कृतः
ददर्श तत्र वैश्यं च पुष्पभद्रानदीतटे
वैश्येन सार्द्धं नृपतिरगच्छन्मेधसाश्रमम्
ददर्श तत्र नृपतिर्मुनिं तं तीव्रतेजसम्
राजा ननाम वैश्यश्च शिरसा मुनिपुङ्गवम्
प्रश्नं चकार कुशलं जातिनाम पृथक्पृथक् 2.62.
सुरथ उवाच बहिर्भूतः स्वराज्याच्च नन्दिना बलिनाऽधुना
किमुपायं करिष्यामि कथं राज्यं भवेन्मम
अयं वैश्यः समाधिश्च स्वगृहाच्च बहिष्कृतः