ऋषय ऊचुः स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः
प्रह्राद उवाच कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम्
शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः
वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः
प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम्
दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे
प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे
ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम्
चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया
तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते 2.61.
दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत्
सकामा कामतो जारं भजते स्वसुखेन च
कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरम्
पापी यस्याश्च तस्याश्च साधुभिः परिवर्जितम्
त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्भवेत्
चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा
यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः
कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा
जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ
आशिषं शम्भुधर्माभ्यां दत्त्वा लोकं ययौ विधिः 2.61.
भावानुरक्तवनितां प्राप्य संहृष्टमानसः
तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान्
घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा
अतीव यौवनस्थां च बालां षोडशवार्षिकीम्
तस्यामथायं रहसि वीर्य्याधानं चकार सः
सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली
मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने
शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् 2.61.
ददौ द्विजातये राजा नित्यं वै जीवितावधि