मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः
इत्युक्त्वा जगतां धाता विरराम च संसदि
प्रह्राद उवाच सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः
हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः
सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम्
ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे
यस्य लोमसु विश्वानि निखिलानि जगत्पते
षोडशांशो भगवतः स चैव हि महान्विराट्
आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम्
नमस्तस्मै भगवते शिवाय शिवरूपिणे 2.61.
श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः
स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया
त्रिपुरः किङ्करोऽस्माकं वीरत्वेन न गण्यते
इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि
ब्रह्मोवाच सुप्रीत्या चरणं वत्स सर्वमङ्गलकारणम्
तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे
सनत्कुमार उवाच यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा
सनातन उवाच रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः
सनन्दन उवाच गुरुश्च वैष्णवः शुक्रः स च केन जितो महान्
सनक उवाच पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना ।। 2.61.
ऋषय ऊचुः स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः
प्रह्राद उवाच कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम्
शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः
वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः
प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम्
दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे
प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे
ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम्
चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया
तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते 2.61.