शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः
शम्भुर्धर्मश्च सूर्य्यश्च शक्रोऽनन्तश्च पुत्रक
युद्धायायान्ति सन्नद्धास्तिस्रः कोट्यश्च देवताः
भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः
तारकामयसंग्रामे मध्यस्थो ऽहं सुतैः सह
शुक्र उवाच योत्स्ये विना महेशं च सर्वेषां च गुरुं परम्
दैत्या ऊचुः धर्मश्च साक्षी सर्वेषां त्वमेव च पितामहः
अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम्
कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः
ब्रह्मोवाच हे वत्सास्तेन सार्द्धं च को वा युद्धं करिष्यति ।। 2.61.
भद्रकाली जगन्माता खड्गखर्पर धारिणी
सा सहस्रभुजा देवी मुण्डमालाविभूषणा
सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः
अतीव रौद्रा सन्नद्धा भीमाः शंकरकिंकराः
शिवस्य पार्षदाः सर्वं महाबलपराक्रमाः
सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम्
कालाग्निरुद्रः संहर्त्ता यस्य शम्भोश्च किंकरः
यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः
यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान्
त्रिकोटिसूर्य्यसदृशस्तेजस्वी परमाद्भुतः 2.61.
मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः
इत्युक्त्वा जगतां धाता विरराम च संसदि
प्रह्राद उवाच सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः
हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः
सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम्
ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे
यस्य लोमसु विश्वानि निखिलानि जगत्पते
षोडशांशो भगवतः स चैव हि महान्विराट्
आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम्
नमस्तस्मै भगवते शिवाय शिवरूपिणे 2.61.