इत्युक्त्वा जगतां धाता चागमच्छुक्रसन्निधिम्
नारद उवाच श्रोतुमिच्छामि भगवन्परं कौतूहलं मम
नारायण उवाच नानादैत्यगणाकीर्णं रत्नमण्डपभूषितम्
पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः
रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः
ददर्श जगतां धाता सभायां भृगुनन्दनम्
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम्
दृष्ट्वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः
दृष्ट्वा पितामहं शुक्रो धातारं जगतां प्रभुम्
आदाय पूजयामास चोपचारांस्तु षोडश
विद्या मन्त्रप्रदातारं दातारं सर्वसम्पदाम् ।। स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ।2.61.
शुक्रस्य स्तवनेनैव सन्तुष्टो जगतां पतिः
शुक्रेण शिरसा दत्तरत्नसिंहासने वरे
शुक्रः प्रणम्य ब्रह्माणं कुमारं शकुनं क्रतुम्
कपिलं वै पञ्चशिखं वोढुमंगिरसं मुने
प्रत्येकं पूजयामास सादरं च यथोचितम्
प्रहृष्टवदनाः सर्वे प्रणेमुर्दितिनन्दनाः
सर्वान्संस्तूय स कविरवोचत्सम्पुटाञ्जलिः
शुक्र उवाच स्वयं विधाता भगवान्साक्षाद्दृष्टः स्वमन्दिरे
साक्षाद्दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः
कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् 2.61.
पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः
ब्रह्मोवाच विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते
कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः
दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम्
गुर्विष्टयोः पूजनं च सर्वमङ्गलकारणम्
अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे नृणामिह
गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह
तुष्टश्च सततं वत्स श्रीकृष्णः प्रकृतेः परः
साम्प्रतं शृणु मे धीमन्नत्रागमनकारणम् 2.61.