भक्ति निर्मथनं भक्तो मोक्षं नो वाञ्छति प्रभोः
वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम्
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः
कपिलश्च कुमारश्च नरनारायणावृषी
भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरंगिराः
वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम्
ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः
लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ।। 2.60.
तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे
विषण्णो हि भवाब्धौ च बभूव तमुवाच ह
बृहस्पतिरुवाच तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम्
पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर
श्रीमहादेव उवाच सम्भावितस्य दुश्चर्च्चा मरणादतिरिच्यते
पुरो गच्छ महाभाग तमेतं नर्मदातटम्
शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम्
सगणं शङ्करं दृष्ट्वा प्रसन्नवदनेक्षणम्
ननाम शम्भुः शिरसा विष्णुं च कमलोद्भवम्
एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः 2.60.
सूर्य्यं धर्ममनन्तं च नरं मां च मुनीश्वरान्
सञ्चिन्त्य मनसा युक्तिमूचे तत्र च संसदि
विष्णुरुवाच शुक्रं कञ्चिच्च मध्यस्थं प्रस्थापयितुमर्हथ
विग्रहेणैव विषमं भविष्यति न संशयः
सुरैः स्तुतश्च सन्तुष्टः शुक्राचार्य्यो भविष्यति
युवाभ्यां प्रार्थ्यमानोऽहं युवयोः स्तवनेन च
इत्युक्त्वा जगतां नाथस्तत्रैवान्तर धीयत
गते च जगतां नाथे श्वेतद्वीपं च नारद
मुनीन्देवांश्च संबोध्य ब्रह्मा वै तत्र संसदि 2.60.
ब्रह्मोवाच अस्माकं च समः स्नेहो दैत्ये देवे च पुत्रकाः
दैत्यानां च गुरुं शुक्रं प्रपन्नश्च निशाकरः
ताराहेतोरहं यामि शुक्रस्य भवनं सुराः