अहं ब्रह्मा च शेषश्च धर्मः साक्षी च कर्म्मणाम्
फलं कर्मानुरूपेण सर्वेषां भारते भवेत्
हन्ति तेषां कर्म पूर्वं भक्तानां भक्तवत्सलः
तेजस्विनां च प्रवरं वैष्णवं भृगुनन्दनम्
सुदर्शनो बलिष्ठं च शुक्रं जेतुं न शक्तिमान्
भज सत्यं परं ब्रह्म कृष्णमात्मानमीश्वरम्
मन्त्रं तस्य प्रदास्यामि भ्रातः कल्पतरुं परम्
ब्रह्मादिस्तंबपर्य्यन्तं नश्वरं जलबिम्बवत् तावद्भवेच्छा भोगेच्छा स्त्रीसुखेच्छा नृणामिह ।। 2.60.
यावद्गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः
इन्द्रत्वममरत्वं च नहि वाञ्छन्ति वैष्णवाः
भक्ति निर्मथनं भक्तो मोक्षं नो वाञ्छति प्रभोः
वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम्
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः
कपिलश्च कुमारश्च नरनारायणावृषी
भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरंगिराः
वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम्
ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः
लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ।। 2.60.
तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे
विषण्णो हि भवाब्धौ च बभूव तमुवाच ह
बृहस्पतिरुवाच तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम्
पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर
श्रीमहादेव उवाच सम्भावितस्य दुश्चर्च्चा मरणादतिरिच्यते
पुरो गच्छ महाभाग तमेतं नर्मदातटम्
शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम्
सगणं शङ्करं दृष्ट्वा प्रसन्नवदनेक्षणम्
ननाम शम्भुः शिरसा विष्णुं च कमलोद्भवम्
एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः 2.60.
सूर्य्यं धर्ममनन्तं च नरं मां च मुनीश्वरान्
सञ्चिन्त्य मनसा युक्तिमूचे तत्र च संसदि