कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता
जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः
संहर्त्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः
निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद
शिव उवाच अवैष्णवानामसतामशिवं च पदे पदे
ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः
अवैष्णवानां हृदयं नहि शुद्धं सदामलम्
भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः 2.60.
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः
गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः
निश्श्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः
तथाऽपि तं नो शशाप धर्म्मभङ्गभयेन च
अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः
धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा
ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा
स्वधर्मनिरता विप्रा नारायणपरायणाः
मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः
ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्च्चनमीप्सितम् 2.60.
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम्
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि
परिपक्वा विपक्वा वा वैष्णवाः साधवश्च ते
यथा वह्नौ शुष्कतृणं भस्मीभूतं भवेत्सदा
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति
पुंसां शतं पितॄणां च शतं मातामहस्य च
गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम्
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः
पुनन्त्येव हि तीर्थानि गङ्गादीनि च भारते
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च 2.60.
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः
वायुश्च पवनो वह्निः सूर्य्यः सर्वं पुनाति च