वचनेषु च बुद्धौ च स्वभावे च चरित्रतः
यादृग्येषां च हदये तादृक्तेषां च मंगलम्
इत्युक्त्वा च महादेवो विरराम स्वसंसदि
बृहस्पतिरुवाच लोकाः कर्मवशान्नित्यं नानाजन्मसु यत्कृतम्
स्वकर्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि
केचिद्वदन्ति दैवेन स्वभावेनेति केचन
स्वयं च कर्मजनकः कर्म वै दैवकारणम्
स्वकर्मणां च सर्वेषां जन्तूनां प्रतिजन्मनि
स्वकर्मफलभोक्ता च जीवो हि सगुणः सदा 2.60.
स एवात्मा सर्वसेव्यः सर्वेषां च फलप्रदः
कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता
जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः
संहर्त्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः
निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद
शिव उवाच अवैष्णवानामसतामशिवं च पदे पदे
ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः
अवैष्णवानां हृदयं नहि शुद्धं सदामलम्
भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः 2.60.
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः
गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः
निश्श्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः
तथाऽपि तं नो शशाप धर्म्मभङ्गभयेन च
अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः
धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा
ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा
स्वधर्मनिरता विप्रा नारायणपरायणाः
मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः
ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्च्चनमीप्सितम् 2.60.
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम्
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि