पितृयज्ञे तनुं त्यक्त्वा योगाद्वै सिद्धयोगिनी
कालेन कृष्णतपसा शङ्करं प्राप सुन्दरी।। श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः
कृष्णस्य वरपुत्रोऽयं स्वयमेव बृहस्पतिः
इत्येवं कथितं सर्वमतिगुह्यं पुरातनम्
पारंपरिकमन्यं च कथयामि निशामय 2.59.
शिष्यौ चांगिरसस्तौ द्वौ गुरुपुत्रोऽथवा ततः
स्वज्ञानं स्वं च भगवान्विसस्मार स्वमोहतः
अतो हेतोर्गुरुश्चैवं मत्सुतस्स्याच्छिवस्य सः
त्वं गच्छ तत्र सन्नद्धः सदेवो नर्मदातटम्
गुरुर्ययौ च कैलासं महेन्द्रो नर्मदातटम्
नारद उवाच निपीतं च महाख्यानं त्वन्मुखेन्दुविनिसृतम्
अधुना श्रोतुमिच्छामि किमुवाच बृहस्पतिः
जगत्कर्ता विधाता च किं वा तं प्रत्युवाच सः
नारायण उवाच प्रणम्य तस्थौ पुरतो लज्जावनतकन्धरः
दृष्ट्वा गुरुसुतं शम्भुरुदतिष्ठत्कुशासनात्
स्वासने वासयित्वा वै पप्रच्छ कुशलं वचः
श्रीशङ्कर उवाच साश्रुनेत्रो लज्जितश्च भ्रातस्तत्कारणं वद
किं वा तपस्या हीना ते सन्ध्या हीनाऽथवा मुने
किं वा गुरौ भक्तिहीनोऽभीष्टदेवेऽथवा गुरौ
किं वाऽतिथिस्ते विमुखः किं वा पोष्या बुभुक्षिताः 2.60.१
सुशासितो न शिष्यो वा किं भृत्याश्चोत्तरप्रदाः
गरिष्ठश्च वरिष्ठश्च शश्वत्सन्तुष्ट मानस
किं वा रुष्टोऽभीष्टदेवः किं वा रुष्टाश्च वाडवाः
किं वा ते बन्धुविच्छेदो विग्रहो बलिना सह
केन ते वा कृता निन्दा खलैर्वा पापिभिर्मुने
बन्धुस्त्यक्तस्त्वया किं वा वैराग्येण क्रुधाऽथवा
गुरुनिन्दा बन्धुनिन्दा खलवक्त्राच्छ्रुताऽथवा
असद्वंशप्रजातानां खलानां निन्दनं तथा
परप्रशंसकाः सन्तः पुण्यवन्तो हि भारते
पुत्रे यशसि तोये च समृद्धे च पराक्रमे 2.60.