नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि
जगद्गुरोः शिवस्यापि गुरुपुत्रो बृहस्पतिः
सर्वे समूहा देवानां सन्नद्धाश्च सवाहनाः
पश्चादहं च यास्यामि पुण्यं तन्नर्म्मदातटम्
महेन्द्र उवाच मृत्युञ्जयस्य शम्भोश्च गुरुपुत्रो बृहस्पतिः ।। 2.59.
अङ्गिरास्तव पुत्रश्च तत्पुत्रश्च बृहस्पतिः
ब्रह्मोवाच इमां पुराप्रवृत्तिं च कथयामि निशामय
मृतवत्सा कर्म्मदोषाद्भार्य्या चाङ्गिरसः पुरा
व्रतं पुंसवनं नाम वर्षमेकं चकार सा
तदाऽऽगत्य च गोलोकात्परमात्मा कृपामयः
सुव्रतां च सलक्ष्मीकां तामुवाच कृपानिधिः
श्रीकृष्ण उवाच भुंक्ष्व मद्वरतः पुत्रि भविष्यति मदंशतः
पतिर्गुरुश्च देवानां महतां ज्ञानिनां वरः
मद्वरेण भवेद्यो हि स च मद्वरपुत्रकः
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा 2.59.
इत्युक्त्वा राधिकानाथः स्वलोकं च जगाम सः मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा
दिव्यं वर्षत्रिलक्षं च तपश्चक्रे हिमालये स्वशक्तिं विष्णुमायां च स्वांशं वै वाहनं वृषम्
स्वशूलं च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् शिवलोके शिवा सा च विष्णुमाया शिवप्रिया
शक्तिर्नारायणस्येयं साऽऽविर्भूता सनातनी
जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम्
पितृयज्ञे तनुं त्यक्त्वा योगाद्वै सिद्धयोगिनी
कालेन कृष्णतपसा शङ्करं प्राप सुन्दरी।। श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः
कृष्णस्य वरपुत्रोऽयं स्वयमेव बृहस्पतिः
इत्येवं कथितं सर्वमतिगुह्यं पुरातनम्
पारंपरिकमन्यं च कथयामि निशामय 2.59.
शिष्यौ चांगिरसस्तौ द्वौ गुरुपुत्रोऽथवा ततः
स्वज्ञानं स्वं च भगवान्विसस्मार स्वमोहतः
अतो हेतोर्गुरुश्चैवं मत्सुतस्स्याच्छिवस्य सः
त्वं गच्छ तत्र सन्नद्धः सदेवो नर्मदातटम्
गुरुर्ययौ च कैलासं महेन्द्रो नर्मदातटम्