इत्येवमुक्त्वा स गुरुः प्रविवेश गृहं मुहुः
मुहुर्मुहुश्च मूर्च्छां च चेतनां समवाप सः
अथान्तरे महाज्ञानी ज्ञानिभिश्च प्रबोधितः
स गुरुः पूजितस्तेन चातिथ्येन मरुत्वता
बृहस्पतिवचः श्रुत्वा रक्तपङ्कजलोचनः 2.59.
महेन्द्र उवाच अतीव निपुणं दक्षं तत्त्वप्राप्तिनिमित्तकम्
यत्रास्ति पातकी चन्द्रो मन्मात्रा तारया सह
त्यज चिन्तां महाभाग सर्वं भद्रं भविष्यति
इत्युक्त्वा च शुनासीरो दूतानां च सहस्रकम्
ते दूता वै वर्षशतं ययुर्निर्जनमेव च
चन्द्रं च शुक्रभवने तं प्रपन्नं च विज्वरम्
इति श्रुत्वा शुनासीरो नतवक्त्रो बृहस्पतिम्
महेन्द्र उवाच भयं त्यज महाभाग सर्वं भद्रं भविष्यति
त्वया नहि जितः शुक्रो न मया दितिनन्दनः
गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्द्धमेव च 2.59.
इत्युक्त्वा तु महेन्द्रश्च सन्तप्तो गुरुणा सह
तत्र दृष्ट्वा च ब्रह्माणं ननाम गुरुणा सह
महेन्द्रवचनं श्रुत्वा हसित्वा कमलोद्भवः
ब्रह्मोवाच तस्मै ददाति दुःखं च शास्ता कृष्णः सनातनः
अहं स्रष्टा च सृष्टेश्च पाता विष्णुः सनातनः
निरन्तरं सर्वसाक्षी धर्मो वै सर्वकारणम्
बृहस्पतिरुतथ्यश्च संवर्तश्च जितेन्द्रियः
संवर्ताय कनिष्ठाय न च किञ्चिद्ददौ गुरुः
मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम्
यो हरेद्भ्रातृजायां च कामी कामादकामुकीम् 2.59.
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरम्
तस्मादुत्तीर्य्य पापी च विष्ठायां जायते कृमिः
ततो भवेन्महापापी वर्षकोटिसहस्रकम्
गृध्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः
ददाति यो न दायं च बलिष्ठो दुर्बलाय च