रुरोदोच्चैः सशिष्यश्च हदयेन विदूयता
उवाच शिष्यान्सम्बोध्य नीतिं च श्रुतिसम्मताम्
बृहस्पतिरुवाच दुःखं धर्म्मविरुद्धो यः स प्राप्नोति न संशयः
भावानुरक्ता वनिता हृता यस्य च शत्रुणा
सुशीला सुन्दरी भार्य्या गता यस्य गृहादहो 2.59.
दैवेनापहृता यस्य पतिसाध्या पतिव्रता
यस्य माता गृहे नास्ति गृहिणी वा सुशासिता
प्रियाहीनं गृहं यस्य पूर्णं द्रविणबन्धुभिः
भार्याशून्या वनसमाः सभार्याश्च गृहा गृहाः
अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि
दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः
शक्तिहीनो यथा जीवो यथा चात्मा तनुं विना
न च शक्तो यथा यज्ञः फलदो दक्षिणां विना
विना स्वर्णं स्वर्णकारो यथा शक्तः स्वकर्मणि
तथा गृही न शक्तश्च सततं सर्वकर्मणि 2.59.
भार्य्यामूलाः क्रियाः सर्वा भार्य्यामूला गृहास्तथा
भार्य्यामूलः सदा हर्षो भार्य्यामूलं च मङ्गलम्
यथा रथश्च रथिनां गृहिणां च तथा गृहम्
सर्वरत्नप्रधाना च स्त्रीरत्नं दुष्कुलादपि
यथा जलं विना पद्मं पद्मं शोभां विना यथा
इत्येवमुक्त्वा स गुरुः प्रविवेश गृहं मुहुः
मुहुर्मुहुश्च मूर्च्छां च चेतनां समवाप सः
अथान्तरे महाज्ञानी ज्ञानिभिश्च प्रबोधितः
स गुरुः पूजितस्तेन चातिथ्येन मरुत्वता
बृहस्पतिवचः श्रुत्वा रक्तपङ्कजलोचनः 2.59.
महेन्द्र उवाच अतीव निपुणं दक्षं तत्त्वप्राप्तिनिमित्तकम्
यत्रास्ति पातकी चन्द्रो मन्मात्रा तारया सह
त्यज चिन्तां महाभाग सर्वं भद्रं भविष्यति
इत्युक्त्वा च शुनासीरो दूतानां च सहस्रकम्
ते दूता वै वर्षशतं ययुर्निर्जनमेव च