तीवरस्य तु बीजेन तैलकारस्य योषिति 1.10.
लेटस्तीवरकन्यायां जनयामास षट् सुतान्
ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः
तीवरेण च चण्डाल्यां चर्मकारो बभूव ह
मांसच्छेद्यां तीवरेण कोञ्चश्च परिकीर्तितः
सद्यश्चण्डालकन्यायां लेटवीर्य्येण शौनक
क्रमेण हड्डिकन्यायां सद्यश्चण्डालवीर्य्यतः
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक
गङ्गापुत्रस्य कन्यायां वीर्य्याद्वै वेषधारिणः
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह
क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह 1.10.
क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्तितः
तीवर्यां धीवरात्पुत्रो बभूव रजकः स्मृतः
नापिताद्गोपकन्यायां सर्वस्वी तस्य योषिति
तीवराच्छुण्डिकन्यायां बभूवुः सप्त पुत्रकाः
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे
तदशौचं विप्रतुल्यं पतितश्चर्तुदोषतः
क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे
चकार वागतीतं च क्षत्रियेणापि वारितः
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्जयाः 1.10.
म्लेच्छात्कुविन्दकन्यायां जोला जातिर्बभूव ह।। । जोलात्कुविन्दकन्यायां शराङ्कः परिकीर्तितः
वर्णसङ्करदोषेण बह्व्यश्चाश्रुतजातय
वैद्योऽश्विनीकुमारेण जातो विप्रस्य योषिति
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः
शौनक उवाच अहो केनाविवेकेन वीर्य्याधानं चकार ह
सौतिरुवाच ददर्श कामुकः शान्तः पुष्पोद्याने च निर्जने
तया निवारितो यत्नाद्बलेन बलवान्सुरः
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे
सपुत्रा स्वामिनो गेहं जगाम व्रीडिता सदा