तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी
एकादश्यां च यो भुङ्क्ते कृष्णजन्माष्टमीदिने
स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टे घृतमेव च
पीतशेष जलं चैव भुक्तशेषं तथौदनम्
तं यातु चन्द्रपापं च दुर्निवारं च दारुणम्
स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः
अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः
स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी
तस्मादुतीर्य्य चाण्डालीं योनिमाप्नोति पातकी 2.58.
गर्दभो जन्मशतकं सूकरस्सप्तजन्मसु जलौका जन्मशतकं शुचिर्भवतु तत्परम्
वृथा मांसं च यो भुङ्क्ते स्वार्थं पाकान्नमेव च
स यातु चन्द्रपापेन चासिपत्रं चतुर्युगम्
विप्रो वार्धुषिको यो हि योनिजीवी चिकित्सकः
स्वधर्मकथकश्चैव यश्च स्वात्मप्रशंसकः
तं यातु चन्द्रपापं च चन्द्रो भवतु विज्वरः
तत्र विद्धो भवतु स यावदिन्द्राश्चतुर्दश
लाक्षामांसरसानां च तिलानां लवणस्य च
विप्रः कुलालः चौरश्च यातु तं चन्द्रपातकम्
तत्र च्छिन्नो भवतु स यावदिन्द्रसहस्रकम् 2.58.
सप्तजन्मसु मार्जारो महिषो जन्मपञ्चकम्
मत्स्यत्वे जन्मशतकं कर्कटी जन्मपञ्चकम्
नाविकः शवजीवी च व्याधश्च स्वर्णकारकः
इति चन्द्रं शुचिं कृत्वा समुवाच तु तारकाम्
प्रायश्चित्तं विना पूता त्वमेवं शुद्धमानसा
इत्येवमुक्त्वा शुक्रश्च चन्द्रं वा तारकां सतीम्
नारद उवाच कथं संप्राप तां साध्वीं तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच प्रस्थापयामास शिष्यमन्वेषार्थं च जाह्नवीम्
शिष्यो गत्वा च तद्वत्तं ज्ञात्वा वै लोकवक्त्रतः
श्रुत्वा सुरगुरुर्वार्तां शशिना च प्रियां हृताम्