स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् 2.58.
कीर्त्तिं करोति रजसा परकीर्त्तिं विलुप्य च
पितरं मातरं भार्य्यां यो न पुष्णाति पातकी
कुलटान्नमवीरान्नमृतुस्नातान्नमेव च
स यातु तेन पापेन कुम्भीपाकं चतुर्युगम्
दिवसे यो ग्राम्यधर्मं महापापी करोति च
तं यातु चन्द्रपापं च महाघोरं च पापिनम्
मुखं श्रोणीं स्तनं चापि यः पश्यति परस्त्रियाः
स यातु लालाभक्षं च चन्द्रपापाच्चतुर्युगम्
कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्बिषम् 2.58.
तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी
एकादश्यां च यो भुङ्क्ते कृष्णजन्माष्टमीदिने
स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टे घृतमेव च
पीतशेष जलं चैव भुक्तशेषं तथौदनम्
तं यातु चन्द्रपापं च दुर्निवारं च दारुणम्
स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः
अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः
स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी
तस्मादुतीर्य्य चाण्डालीं योनिमाप्नोति पातकी 2.58.
गर्दभो जन्मशतकं सूकरस्सप्तजन्मसु जलौका जन्मशतकं शुचिर्भवतु तत्परम्
वृथा मांसं च यो भुङ्क्ते स्वार्थं पाकान्नमेव च
स यातु चन्द्रपापेन चासिपत्रं चतुर्युगम्
विप्रो वार्धुषिको यो हि योनिजीवी चिकित्सकः
स्वधर्मकथकश्चैव यश्च स्वात्मप्रशंसकः
तं यातु चन्द्रपापं च चन्द्रो भवतु विज्वरः
तत्र विद्धो भवतु स यावदिन्द्राश्चतुर्दश
लाक्षामांसरसानां च तिलानां लवणस्य च
विप्रः कुलालः चौरश्च यातु तं चन्द्रपातकम्
तत्र च्छिन्नो भवतु स यावदिन्द्रसहस्रकम् 2.58.