इत्युक्त्वा वै दैत्यगुरुः स्वर्गे मन्दाकिनीतटे 2.58.
विष्णुपादाब्जजातेन तन्नैवेद्यं शुभप्रदम्
क्रोडे कृत्वा तु तं भीतं सज्जितं पापकर्मणा
शुक्र उवाच सत्यं व्रतफलं चैव सत्यं सत्यवचः फलम्
तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि
विप्रं त्रिसन्ध्याहीनं या विष्णुपूजाविही नकम्
स्वभार्य्यावञ्चनं कृत्वा यः प्रयाति परस्त्रियम्
वाचा वा ताडयेत्कान्तं दुश्शीला दुर्मुखा च या
अनैवेद्यं वृथान्नं च यश्च भुङ्क्ते हरेर्द्विजः
अम्बुवाच्यं भूखननं यः करोति नरा धमः
स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् 2.58.
कीर्त्तिं करोति रजसा परकीर्त्तिं विलुप्य च
पितरं मातरं भार्य्यां यो न पुष्णाति पातकी
कुलटान्नमवीरान्नमृतुस्नातान्नमेव च
स यातु तेन पापेन कुम्भीपाकं चतुर्युगम्
दिवसे यो ग्राम्यधर्मं महापापी करोति च
तं यातु चन्द्रपापं च महाघोरं च पापिनम्
मुखं श्रोणीं स्तनं चापि यः पश्यति परस्त्रियाः
स यातु लालाभक्षं च चन्द्रपापाच्चतुर्युगम्
कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्बिषम् 2.58.
तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी
एकादश्यां च यो भुङ्क्ते कृष्णजन्माष्टमीदिने
स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टे घृतमेव च
पीतशेष जलं चैव भुक्तशेषं तथौदनम्
तं यातु चन्द्रपापं च दुर्निवारं च दारुणम्
स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः
अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः
स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी
तस्मादुतीर्य्य चाण्डालीं योनिमाप्नोति पातकी 2.58.