स शत्रुर्मे सुरगुरुः परो विश्वे निशाकर यत्र लोकाश्च धर्मिष्ठास्तत्र धर्मः सनातनः 2.58.
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
हिंसकाः प्रलयं यान्ति धर्मो रक्षति धार्मिकम्
तथाऽपि नहि रक्षन्ति धर्मघ्नं पापिनं जनम्
ब्रह्महत्याषोडशांश पातकं च भवेद्ध्रुवम्
विप्रपत्नीसतीनां च गमनं वै बलेन चेत्
धर्म्मं चर महाभाग ब्राह्मणीं त्यज साम्प्रतम्
उपायेन च ते पापं दूरीभूतं भवेन्ननु
शस्त्रहीनं च भीतं च दीनं च शरणार्थिनम्
राजसूयशतानां च रक्षिता लभते फलम्
इत्युक्त्वा वै दैत्यगुरुः स्वर्गे मन्दाकिनीतटे 2.58.
विष्णुपादाब्जजातेन तन्नैवेद्यं शुभप्रदम्
क्रोडे कृत्वा तु तं भीतं सज्जितं पापकर्मणा
शुक्र उवाच सत्यं व्रतफलं चैव सत्यं सत्यवचः फलम्
तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि
विप्रं त्रिसन्ध्याहीनं या विष्णुपूजाविही नकम्
स्वभार्य्यावञ्चनं कृत्वा यः प्रयाति परस्त्रियम्
वाचा वा ताडयेत्कान्तं दुश्शीला दुर्मुखा च या
अनैवेद्यं वृथान्नं च यश्च भुङ्क्ते हरेर्द्विजः
अम्बुवाच्यं भूखननं यः करोति नरा धमः
स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् 2.58.
कीर्त्तिं करोति रजसा परकीर्त्तिं विलुप्य च
पितरं मातरं भार्य्यां यो न पुष्णाति पातकी
कुलटान्नमवीरान्नमृतुस्नातान्नमेव च
स यातु तेन पापेन कुम्भीपाकं चतुर्युगम्
दिवसे यो ग्राम्यधर्मं महापापी करोति च
तं यातु चन्द्रपापं च महाघोरं च पापिनम्
मुखं श्रोणीं स्तनं चापि यः पश्यति परस्त्रियाः
स यातु लालाभक्षं च चन्द्रपापाच्चतुर्युगम्
कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्बिषम् 2.58.