कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि
दिने दिने वृथा याति दुर्लभं नवयौवनम्
शश्वत्तपस्यायुक्तश्च कृष्णमात्मानमीप्सितम् 2.58.
सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम्
अन्यश्च त्वन्मनःकामो भिन्नं त्वद्भर्तुरीप्सितम्
वासन्तीपुष्पतल्पे च गन्धचन्दन चर्चिते
सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने
चन्दने चम्पकवने शीतचम्पकवायुना
तारोवाच अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम्
अरे कृत्वा राजसूयमात्मानं मन्यसे बली
यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।। न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः 2.58.
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति
इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः
ब्रह्माणं परमात्मानमाकाशं पवनं धराम्
तारकावचनं श्रुत्वा न भीतः स चुकोप ह
रथं च चालयामास मनोयायी मनोहरम्
विस्पन्दके सुरवने चन्दने पुष्पभद्रके
सुगन्धि पुष्पतल्पे च पुष्पचन्दनवायुना
शैले शैले नदे नद्यां शृंगारं कुर्वतोस्तयोः
बभूव शरणापन्नो भीतो दैत्येषु चन्द्रमाः 2.58.
अभयं च ददौ तस्मै कृपया भृगुनन्दनः
सभायां जहसुर्हृष्टा बलिनो दितिनन्दनाः
सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले
उवाच तं महाभीतं शुक्रो वेदविदां वरः
शुक्र उवाच दुर्नीतं कर्म ते पुत्र नीचवन्नयशस्करम्
राजसूयस्य सुफले निर्मले कीर्त्तिमण्डले
त्यज देवगुरौ पत्नीं प्रसूमिव महासतीम्
शम्भोः सुराणामीशस्य गुरुपुत्रस्य वेधसः
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि