सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम्
सुदतीं कोमलांगीं च नवयौवनसंयुताम्
कस्तूरीबिन्दुना सार्द्धमधश्चन्दनबिन्दुना 2.58.
वायुनाऽधोवस्त्रहीनां सकामां रक्तलोचनाम्
सस्मितां नम्नवक्त्रां च लज्जया चन्द्रदर्शनाम्
तां दृष्ट्वा मन्मथाक्रान्तश्चन्द्रो लज्जां जहौ मुने
चन्द्र उवाच सुविदग्धे विदग्धानां मनो हरसि सन्ततम्
निषेव्य प्रकृतिं जन्मसहस्रे कामसागरे
अहो तपस्विना सार्द्धमविदग्धेन वेधसा
किं वा सुखं च विज्ञातमविज्ञेषु समागमे
कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि
दिने दिने वृथा याति दुर्लभं नवयौवनम्
शश्वत्तपस्यायुक्तश्च कृष्णमात्मानमीप्सितम् 2.58.
सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम्
अन्यश्च त्वन्मनःकामो भिन्नं त्वद्भर्तुरीप्सितम्
वासन्तीपुष्पतल्पे च गन्धचन्दन चर्चिते
सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने
चन्दने चम्पकवने शीतचम्पकवायुना
तारोवाच अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम्
अरे कृत्वा राजसूयमात्मानं मन्यसे बली
यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।। न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः 2.58.
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति
इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः
ब्रह्माणं परमात्मानमाकाशं पवनं धराम्
तारकावचनं श्रुत्वा न भीतः स चुकोप ह
रथं च चालयामास मनोयायी मनोहरम्
विस्पन्दके सुरवने चन्दने पुष्पभद्रके
सुगन्धि पुष्पतल्पे च पुष्पचन्दनवायुना
शैले शैले नदे नद्यां शृंगारं कुर्वतोस्तयोः