तिथिभेदे पर्वभेदे कल्पभेदेऽन्यभेदके
महोत्सवविशेषे च पर्वन्निति सुकीर्तिता
पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते
सर्वकाले सना प्रोक्तो विस्तृते च तनीति च
अर्थः षोडशनाम्नां च कीर्त्तितश्च महामुने
प्रथमे पूजिता सा च कृष्णेन परमात्मना
मधुकैटभभीतेन ब्रह्मणा सा द्वितीयतः ।। 2.57.
भ्रष्टश्रिया महेन्द्रेण शापाद्दुर्वाससः पुरा
तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मुनिपुङ्गवैः
तेजस्सु सर्वदेवानां साऽऽविर्भूता पुरा मुने
दुर्गादयश्च दैत्याश्च निहता दुर्गया तया
कल्पान्तरे पूजिता सा सुरथेन महात्मना
मेषादिभिश्च महिषैः कृष्णसारैश्च मण्डकैः
वेदोक्तांश्चैव दत्त्वैवमुपचारांस्तु षोडश
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम्
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः कृताञ्जलिः
मृन्मयीं तामदृष्ट्वा च जलधौतां नराधिपः 2.57.
त्यक्त्वा देहं च वैश्यस्तु पुष्करे दुष्करं तपः
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण सः
भोगं च बुभुजे भूपः षष्टिवर्षसहस्रकम्
मनुर्बभूव सावर्णिस्तप्त्वा वै पुष्करे तपः
दुर्गाख्यानं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृ० नारदनारायणसंवादे दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः
नारद उवाच कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात्
कस्य वंशोद्भवो ब्रह्मन्मेधसो मुनिसत्तम
सख्यं बभूव कुत्रास्य वा प्रभो नृपवैश्ययोः
नारायण उवाच स च कृत्वा राजसूयं द्विजराजो बभूव ह
गुरुपत्न्यां च तारायां तस्याभूच्च बुधः सुतः
नारद उवाच अहो व्यतिक्रमं ब्रूहि वेदस्य च महामुने
नारायण उवाच तारां सुरगुरोः पत्नीं धर्मिष्ठां च पतिव्रताम्