यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः
शिशब्दो मङ्गलार्थश्च वकारो दातृवाचकः
नराणां सन्ततं विश्वे शं कल्याणं करोति यः
ब्रह्मादीनां सुराणां च मुनीनां वेदवादिनाम्
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी
विश्वस्थानां च सर्वेषां महतामीश्वरः स्वयम्
हे ब्रह्मपुत्र धन्योऽसि यद्गुरुश्च महेश्वरः
नारद उवाच अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्
दुर्गा नारायणीशाना विष्णुमाया शिवा सती
अम्बिका वैष्णवी गौरी पार्वती च सनातनी
अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्
केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा
नारायण उवाच ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम्
दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्म्मणि
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः
यशसा तेजसा रूपैर्नारायणसमा गुणैः
ईशानः सर्वसिद्ध्यर्थे चाशब्दो दातृवाचकः 2.57.
सृष्टा माया पुरा सृष्टौ विष्णुना परमात्मना
शिवे कल्याणरूपा च शिवदा च शिवप्रिया
सद्बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे
यथा नित्यो हि भगवान्नित्या भगवती तथा
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव कृत्रिमम्
सिद्धैश्वर्यादिकं सर्वं यस्यामस्ति युगे युगे
सर्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम्
मङ्गलं मोक्षवचनं चाशब्दो दातृवाचकः
हर्षे सम्पदि कल्याणे मंगलं परिकीर्तितम्
अम्बेति मातृवचनो वन्दने पूजने सदा 2.57.
विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी
गौरः पीते च निर्लिप्ते परे ब्रह्मणि निर्मले
गुरुः शम्भुश्च सर्वेषां तस्य शक्तिः या सती