सर्वयज्ञेषु दीक्षायां नित्यं वै सत्यरक्षणे
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि
श्रीनारायण उवाच पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव सः
न कृष्णसदृशो देवो न गङ्गासदृशी सरित्
परमाणोः परं सूक्ष्मं महाविष्णोः परो महान्
यथा न वैष्णवाज्ज्ञानी योगीन्द्रः शङ्करात्परः 2.56.
स्वप्ने जागरणे शश्वत्कृष्णध्यानरतः शिवः
यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः
शिशब्दो मङ्गलार्थश्च वकारो दातृवाचकः
नराणां सन्ततं विश्वे शं कल्याणं करोति यः
ब्रह्मादीनां सुराणां च मुनीनां वेदवादिनाम्
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी
विश्वस्थानां च सर्वेषां महतामीश्वरः स्वयम्
हे ब्रह्मपुत्र धन्योऽसि यद्गुरुश्च महेश्वरः
नारद उवाच अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्
दुर्गा नारायणीशाना विष्णुमाया शिवा सती
अम्बिका वैष्णवी गौरी पार्वती च सनातनी
अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्
केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा
नारायण उवाच ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम्
दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्म्मणि
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः
यशसा तेजसा रूपैर्नारायणसमा गुणैः
ईशानः सर्वसिद्ध्यर्थे चाशब्दो दातृवाचकः 2.57.
सृष्टा माया पुरा सृष्टौ विष्णुना परमात्मना
शिवे कल्याणरूपा च शिवदा च शिवप्रिया
सद्बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे