यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसम्पदाम्
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात्
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी
यद्धृत्वा मनसादेवी सिद्धा वै विश्वपूजिता
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः
एवं सर्वे सिद्धगणाः सर्वैश्वर्य्यमवाप्नुयुः
ऋषिच्छन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम्
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् 2.56.
राज्यं देयं शिरो देयं न देयं कवचं प्रिये
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु
कपालं नेत्रयुग्मं च श्रोत्र युग्मं सदाऽवतु
मस्तकं केशसंघांश्च मन्त्रराजः सदाऽवतु
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम्
ओं रां रासेश्वरीं ङेन्तं स्कंधं पातु नमोऽन्तकम्
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु
कृष्णप्राणाधिका ङेन्तं स्वाहान्तं प्रणवादिकम्
प्राच्यां रक्षतु सा राधा वह्नौ कृष्णप्रियाऽवतु 2.56.
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता
महाविष्णोश्च जननी सर्वतः पातु सन्ततम्
यस्मै कस्मै न दातव्यं गुह्याद्गुह्यतरं परम्
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः
शतलक्षजपेनैव सिद्धं च कवचं भवेत्
एतस्मात्कवचाद्दुर्गे राजा दुर्य्योधनः पुरा
मया सनत्कुमाराय पुरा दत्तं च पुष्करे
बल्लाय तेन दत्तं च ददौ दुर्य्योधनाय सः
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः 2.56.
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम्