यद्धृत्वा च स्वतन्त्रो हि मृत्युश्चरति जन्तुषु
जामदग्न्यश्च रामश्च पठनाद्धारणात्प्रभू
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां गुरुः
यद्धृत्वा पठनात्सिद्धो वसिष्ठो ब्रह्मपुत्रकः
यस्माद्भृगुश्च मां द्वेष्टि कूर्म्मः शेषं बिभर्त्ति च
ईशानो दिक्पतिश्चैव यमः शास्ता यतः शिवे
यद्धृत्वा गौतमः सिद्धः कश्यपश्च प्रजापतिः
पुरा स्वजायाविच्छेदे दुर्वासा मुनिपुङ्गवः
पुरा नलश्च संप्राप दमयन्तीं यतः सतीम् 2.56.
वृषो वहति मां दुर्गे यतो हि गरुडो हरिम्
यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसम्पदाम्
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात्
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी
यद्धृत्वा मनसादेवी सिद्धा वै विश्वपूजिता
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः
एवं सर्वे सिद्धगणाः सर्वैश्वर्य्यमवाप्नुयुः
ऋषिच्छन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम्
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् 2.56.
राज्यं देयं शिरो देयं न देयं कवचं प्रिये
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु
कपालं नेत्रयुग्मं च श्रोत्र युग्मं सदाऽवतु
मस्तकं केशसंघांश्च मन्त्रराजः सदाऽवतु
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम्
ओं रां रासेश्वरीं ङेन्तं स्कंधं पातु नमोऽन्तकम्
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु
कृष्णप्राणाधिका ङेन्तं स्वाहान्तं प्रणवादिकम्
प्राच्यां रक्षतु सा राधा वह्नौ कृष्णप्रियाऽवतु 2.56.
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता