श्रीमहेश्वर उवाच पुरा मह्यं निगदितं गोलोके परमात्मनः
अतिगुह्यं परं तत्त्वं सर्वमन्त्रौघविग्रहम्
यद्धृत्वाऽहं तव स्वामी सर्वमाता सुरेश्वरी
यद्धृत्वा परमात्मा च निर्गुणं प्रकृतेः परः
विष्णुः पाता च यद्धृत्वा संप्राप्तस्सिन्धुकन्यकाम्
प्रत्येकं लोमकूपेषु ब्रह्माण्डानि महान्विराट्
यद्धारणाच्च पठनाद्धर्म्मः साक्षी च सर्वतः
इन्द्रः सुराणामीशश्च पठनाद्धारणाद्विभुः
श्रीमांश्चन्द्रश्च यद्धृत्वा राजसूयं चकार सः 2.56.
यद्धृत्वा पठनादग्निर्जगत्पूतं करोति च
यद्धृत्वा च स्वतन्त्रो हि मृत्युश्चरति जन्तुषु
जामदग्न्यश्च रामश्च पठनाद्धारणात्प्रभू
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां गुरुः
यद्धृत्वा पठनात्सिद्धो वसिष्ठो ब्रह्मपुत्रकः
यस्माद्भृगुश्च मां द्वेष्टि कूर्म्मः शेषं बिभर्त्ति च
ईशानो दिक्पतिश्चैव यमः शास्ता यतः शिवे
यद्धृत्वा गौतमः सिद्धः कश्यपश्च प्रजापतिः
पुरा स्वजायाविच्छेदे दुर्वासा मुनिपुङ्गवः
पुरा नलश्च संप्राप दमयन्तीं यतः सतीम् 2.56.
वृषो वहति मां दुर्गे यतो हि गरुडो हरिम्
यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसम्पदाम्
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात्
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी
यद्धृत्वा मनसादेवी सिद्धा वै विश्वपूजिता
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः
एवं सर्वे सिद्धगणाः सर्वैश्वर्य्यमवाप्नुयुः
ऋषिच्छन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम्
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् 2.56.
राज्यं देयं शिरो देयं न देयं कवचं प्रिये